Sukta 4.17
सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥
स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः । स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ॥
satrā́ sómā abhavann asyá víśve satrā́ mádāso bṛható mádiṣṭhāḥ | satrā́bhavo vásupatir vásūnāṃ dátre víśvā adhithā indra kṛṣṭī́ḥ ||
All the Soma draughts became for him an unbroken power; the exalted raptures were constant and most intense. Constantly you became lord of the riches of being; as the giver you set in their place all the peoples, O Indra.
स॒त्रा । सोमाः॑ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे॑ । स॒त्रा । मदा॑सः । बृ॒ह॒तः । मदि॑ष्ठाः । स॒त्रा । अ॒भ॒वः॒ । वसु॑ऽपतिः । वसू॑नाम् । दत्रे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥सत्रा । सोमाः । अभवन् । अस्य । विश्वे । सत्रा । मदासः । बृहतः । मदिष्ठाः । सत्रा । अभवः । वसुपतिः । वसूनाम् । दत्रे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ॥satrā | somāḥ | abhavan | asya | viśve | satrā | madāsaḥ | bṛhataḥ | madiṣṭhāḥ | satrā | abhavaḥ | vasu-patiḥ | vasūnām | datre | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ