Sukta 4.17
य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः । सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥
य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑: । स॒त्यमे॑न॒मनु॒ विश्वे॑ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोन॑: ॥
yá éka ic cyāváyati prá bhū́mā rā́jā kṛṣṭīnā́ṃ puruhūtá índraḥ | satyám enam ánu víśve madanti rātíṃ devásya gṛṇató maghónaḥ ||
He alone sets the vast world in motion—Indra, the much-invoked king of the peoples. All follow him in the truth and rejoice; he gives the divine largesse to the singer who praises, to the one rich in aspiration.
यः । एकः॑ । इत् । च्या॒वय॑ति । प्र । भूमा॑ । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । स॒त्यम् । ए॒न॒म् । अनु॑ । विश्वे॑ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य॑ । गृण॒तः । म॒घोनः॑ ॥यः । एकः । इत् । च्यावयति । प्र । भूमा । राजा । कृष्टीनाम् । पुरुहूतः । इन्द्रः । सत्यम् । एनम् । अनु । विश्वे । मदन्ति । रातिम् । देवस्य । गृणतः । मघोनः ॥yaḥ | ekaḥ | it | cyāvayati | pra | bhūmā | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ | satyam | enam | anu | viśve | madanti | rātim | devasya | gṛṇataḥ | maghonaḥ