Sukta 4.17
सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् । य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥
सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् । य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥
suvī́ras te janitā́ manyata dyáur índrasya kartā́ svápastamo bhūt | yá īṃ jajā́na svaryáṃ suvájram anapacyútam sádašo ná bhū́ma ||
The Heaven itself deemed your begetter a maker of a most perfect work for Indra, for he brought forth for him the heaven-winning, good thunderbolt, unshaken, vast as a seat of power.
सु॒ऽवीरः॑ । ते॒ । ज॒नि॒ता । म॒न्य॒त॒ । द्यौः । इन्द्र॑स्य । क॒र्ता । स्वपः॑ऽतमः । भू॒त् । यः । ई॒म् । ज॒जान॑ । स्व॒र्य॑म् । सु॒ऽवज्र॑म् । अन॑पऽच्युतम् । सद॑सः । न । भूम॑ ॥सुवीरः । ते । जनिता । मन्यत । द्यौः । इन्द्रस्य । कर्ता । स्वपःतमः । भूत् । यः । ईम् । जजान । स्वर्यम् । सुवज्रम् । अनपच्युतम् । सदसः । न । भूम ॥su-vīraḥ | te | janitā | manyata | dyauḥ | indrasya | kartā | svapaḥ-tamaḥ | bhūt | yaḥ | īm | jajāna | svaryam | su-vajram | anapa-cyutam | sadasaḥ | na | bhūma