Sukta 4.17
भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः । वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥
भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओज॑: । वधी॑द्वृ॒त्रं वज्रे॑ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥
bhinád giríṃ śávasā vájram iṣṇánnā́viṣkṛṇvānáḥ sahasāná ójaḥ | vadhīd vṛtráṃ vájreṇa mandasānáḥ sárann ā́po jávasā hatá-vṛṣṇīḥ ||
He split the obstructing mountain by the force of his power, hurling the thunderbolt, making the hidden things manifest by victorious might. He slew Vṛtra with the thunderbolt in the rapture of the Soma-force; then the Waters rushed forth with swift impulsion, their withholding strength struck down.
भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ । वधी॑त् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । सर॑न् । आपः॑ । जव॑सा । ह॒तऽवृ॑ष्णीः ॥भिनत् । गिरिम् । शवसा । वज्रम् । इष्णन् । आविःकृण्वानः । सहसानः । ओजः । वधीत् । वृत्रम् । वज्रेण । मन्दसानः । सरन् । आपः । जवसा । हतवृष्णीः ॥bhinat | girim | śavasā | vajram | iṣṇan | āviḥ-kṛṇvānaḥ | sahasānaḥ | ojaḥ | vadhīt | vṛtram | vajreṇa | mandasānaḥ | saran | āpaḥ | javasā | hata-vṛṣṇīḥ