Sukta 4.17
तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः । ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥
तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः । ऋ॒घा॒यन्त॑ सु॒भ्व१॒॑: पर्व॑तास॒ आर्द॒न्धन्वा॑नि स॒रय॑न्त॒ आप॑: ॥
táva tviṣó jániman rejata dyáu rejád bhū́mir bhiyásā svásya mányoḥ | ṛghā́yanta subhvàḥ पर्वatāsa ā́rdan dhánvāni sárayante ā́paḥ ||
At the birth of your blazing force, heaven trembled; earth shook in fear of your own wrath. The lofty mountains quivered; the dry lands were drenched; the waters ran forth—when your power arose to set the world in motion toward the Truth.
तव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः । ऋ॒घा॒यन्त॑ । सु॒ऽभ्वः॑ । पर्व॑तासः । आर्द॑न् । धन्वा॑नि । स॒रय॑न्ते । आपः॑ ॥तव । त्विषः । जनिमन् । रेजत । द्यौः । रेजत् । भूमिः । भियसा । स्वस्य । मन्योः । ऋघायन्त । सुभ्वः । पर्वतासः । आर्दन् । धन्वानि । सरयन्ते । आपः ॥tava | tviṣaḥ | janiman | rejata | dyauḥ | rejat | bhūmiḥ | bhiyasā | svasya | manyoḥ | ṛghāyanta | su-bhvaḥ | parvatāsaḥ | ārdan | dhanvāni | sarayante | āpaḥ