Sukta 4.17
स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति । अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥
स्तु॒त इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हन्ति । अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय॑न्ते॒ न मर्ता॑: ॥
stutá índro maghávā yád dha vṛtrā́ bhū́rīṇy éko apratī́ni hánti | asyá priyó jaritā́ yásya śármann ákír devā́ vā́rayante ná mártāḥ ||
Indra the bountiful is praised, for he alone slays the many Vṛtras, the resistances that have no equal. Dear to him is the singer who rests in his shelter; none—neither gods nor mortals—can bar that protection.
स्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ । अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥स्तुतः । इन्द्रः । मघवा । यत् । ह । वृत्रा । भूरीणि । एकः । अप्रतीनि । हन्ति । अस्य । प्रियः । जरिता । यस्य । शर्मन् । नकिः । देवाः । वारयन्ते । न । मर्ताः ॥stutaḥ | indraḥ | magha-vā | yat | ha | vṛtrā | bhūrīṇi | ekaḥ | apratīni | hanti | asya | priyaḥ | jaritā | yasya | śarman | nakiḥ | devāḥ | vārayante | na | martāḥ