Sukta 4.17
सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र ॥
स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इ॑न्द्र स्तुव॒ते वयो॑ धाः । व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हय॑न्त इन्द्र ॥
sakhīyatā́m avitā́ bodhi sákhā gṛṇāńa indra stuvaté váyo dhāḥ | vayáṃ hy ā́ te cakṛmá sabā́dha ābhíḥ śámībhiḥ maháyanta indra ||
Awaken as the helper for our friendship; be the friend, O Indra, and for the praiser set the life-force. For we have come to thee with close approach, magnifying thee by these powers of peace and right adjustment.
स॒खि॒ऽय॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा॑ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । व॒यम् । हि । आ । ते॒ । च॒कृ॒म । स॒ऽबाधः॑ । आ॒भिः । शमी॑भिः । म॒हय॑न्तः । इ॒न्द्र॒ ॥सखियताम् । अविता । बोधि । सखा । गृणानः । इन्द्र । स्तुवते । वयः । धाः । वयम् । हि । आ । ते । चकृम । सबाधः । आभिः । शमीभिः । महयन्तः । इन्द्र ॥sakhi-yatām | avitā | bodhi | sakhā | gṛṇānaḥ | indra | stuvate | vayaḥ | dhāḥ | vayam | hi | ā | te | cakṛma | sa-bādhaḥ | ābhiḥ | śamībhiḥ | mahayantaḥ | indra