Sukta 4.17
एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा । त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥
ए॒वा न॒ इन्द्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा । त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥
evā́ na índro maghávā virapśī́ karat satyā́ carṣaṇīdhṛ́d anárvā | tváṃ rājā́ jánūṣāṃ dhehy asmè ádhi śrávo mā́hinaṃ yáj jaritré ||
So may Indra the bountiful make for us the wide effective action—true, upholding the peoples, unerring. Thou art king of births; place in us a fame and greatness that stands above, for the singer.
ए॒व । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । वि॒ऽर॒प्शी । कर॑त् । स॒त्या । च॒र्ष॒णि॒ऽधृत् । अ॒न॒र्वा । त्वम् । राजा॑ । ज॒नुषा॑म् । धे॒हि॒ । अ॒स्मे इति॑ । अधि॑ । श्रवः॑ । माहि॑नम् । यत् । ज॒रि॒त्रे ॥एव । नः । इन्द्रः । मघवा । विरप्शी । करत् । सत्या । चर्षणिधृत् । अनर्वा । त्वम् । राजा । जनुषाम् । धेहि । अस्मे इति । अधि । श्रवः । माहिनम् । यत् । जरित्रे ॥eva | naḥ | indraḥ | magha-vā | vi-rapśī | karat | satyā | carṣaṇi-dhṛt | anavār | tvam | rājā | januṣām | dhehi | asme iti | adhi | śravaḥ | māhinam | yat | jaritre