Sukta 4.17
क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् । विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥
क्षि॒यन्तं॑ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोह॑म् । वि॒भ॒ञ्ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥
kṣiyántaṃ tvám ákṣiyantaṃ kṛṇóti íyarti réṇuṃ maghávā samóham | vibháñjanur aśánimān iva dyáur utá stotā́raṃ maghávā vásau dhāt ||
That which tends to dwindle, you make it undwindling; you drive away the dust of confusion, O Maghavan. Like heaven that breaks with the thunderbolt, you shatter the obstruction; and, O bountiful one, you set the singer in the wealth (of being).
क्षि॒यन्त॑म् । त्व॒म् । अक्षि॑यन्तम् । कृ॒णो॒ति॒ । इय॑र्ति । रे॒णुम् । म॒घऽवा॑ । स॒म्ऽओह॑म् । वि॒ऽभ॒ञ्ज॒नुः । अ॒शनि॑मान्ऽइव । द्यौः । उ॒त । स्तो॒तार॑म् । म॒घऽवा॑ । वसौ॑ । धात् ॥क्षियन्तम् । त्वम् । अक्षियन्तम् । कृणोति । इयर्ति । रेणुम् । मघवा । सम्ओहम् । विभञ्जनुः । अशनिमान्इव । द्यौः । उत । स्तोतारम् । मघवा । वसौ । धात् ॥kṣiyantam | tvam | akṣiyantam | kṛṇoti | iyarti | reṇum | magha-vā | sam-oham | vi--bhañjanuḥ | aśanimān-iva | dyauḥ | uta | stotāram | magha-vā | vasau | dhāt