Sukta 4.17
कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान । यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूतः स्तनयद्भिरभ्रैः ॥
किय॑त्स्वि॒दिन्द्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ । यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥
kíyat svíd índro ádhyeti mātúḥ kíyat pitúr janitúr yó jajā́na | yó asya śúṣmaṃ muhukáir íyarti vā́to ná jūtáḥ stanáyadbhir abhráiḥ ||
How far indeed does Indra overpass his mother, how far his father who begot him? He who drives his impetuous force again and again, like the wind speeding with thunderous clouds.
किय॑त् । स्वि॒त् । इन्द्रः॑ । अधि॑ । ए॒ति॒ । मा॒तुः । किय॑त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान॑ । यः । अ॒स्य॒ । शुष्म॑म् । मु॒हु॒कैः । इय॑र्ति । वातः॑ । न । जू॒तः । स्त॒नय॑त्ऽभिः । अ॒भ्रैः ॥कियत् । स्वित् । इन्द्रः । अधि । एति । मातुः । कियत् । पितुः । जनितुः । यः । जजान । यः । अस्य । शुष्मम् । मुहुकैः । इयर्ति । वातः । न । जूतः । स्तनयत्भिः । अभ्रैः ॥kiyat | svit | indraḥ | adhi | eti | mātuḥ | kiyat | pituḥ | janituḥ | yaḥ | jajāna | yaḥ | asya | śuṣmam | muhukaiḥ | iyarti | vātaḥ | na | jūtaḥ | stanayat-bhiḥ | abhraiḥ