Sukta 4.17
समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः । एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः ॥
समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः । ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता स॑म्भ॒रश्च॒ वस्व॑: ॥
sám índro gā́ ajayat sáṃ híraṇyā sáṃ aśviyā́ maghávā yó ha pūrvī́ḥ | ébhir nṛ́bhir nṛ́tamo asya śākái rāyó vibhaktā́ sambháraś ca vásvaḥ ||
Indra won together the Rays, together the golden fullness, together the horse-powers—he, the bountiful, from of old. With these men, the most manly by his strengths, he is the distributor of the riches and the gatherer of the true wealth of being.
सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः । ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघवा । यः । ह । पूर्वीः । एभिः । नृभिः । नृतमः । अस्य । शाकैः । रायः । विभक्ता । सम्भरः । च । वस्वः ॥sam | indraḥ | gāḥ | ajayat | sam | hiraṇyā | sam | aśviyā | magha-vā | yaḥ | ha | pūrvīḥ | ebhiḥ | nṛ-bhiḥ | nṛ-tamaḥ | asya | śākaiḥ | rāyaḥ | vi-bhaktā | sam-bharaḥ | ca | vasvaḥ