Sukta 4.16
अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥
अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ । स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥
apó yád ádrim puru-hūta dárdaḥ āvír bhuvat sáramā pū́rvyam té | sá no netā́ vā́jam ā́ darṣi bhū́riṃ gotrā́ rújann áṅgirobhir gṛṇānáḥ ||
When you, much-invoked, broke the rock that held the waters, then Saramā—your ancient intuition—became manifest. Be for us the leader; bring us a plenitude of force, breaking open the hidden pens of light with the Angiras powers, as we hymn you.
अ॒पः । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्दः॑ । आ॒विः । भु॒व॒त् । स॒रमा॑ । पू॒र्व्य॑म् । ते॒ । सः । नः॒ । ने॒ता । वाज॑म् । आ । द॒र्षि॒ । भूरि॑म् । गो॒त्रा । रु॒जन् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ॥अपः । यत् । अद्रिम् । पुरुहूत । दर्दः । आविः । भुवत् । सरमा । पूर्व्यम् । ते । सः । नः । नेता । वाजम् । आ । दर्षि । भूरिम् । गोत्रा । रुजन् । अङ्गिरःभिः । गृणानः ॥apaḥ | yat | adrim | puru-hūta | dardaḥ | āviḥ | bhuvat | saramā | pūrvyam | te | saḥ | naḥ | netā | vājam | ā | darṣi | bhūrim | gotrā | rujan | aṅgiraḥ-bhiḥ | gṛṇānaḥ