Sukta 4.16
अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः । प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥
अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः । प्रार्णां॑सि समु॒द्रिया॑ण्यैनो॒: पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥
apó vṛtráṃ vavri-vā́ṃsaṃ párāhan prā́vat te vájraṃ pṛthivī́ sá-cetāḥ | prā́rṇāṃsi samudriyā́ṇy aínōḥ pátir bhávān śávasā śūra dhṛ́ṣṇo ||
You struck down Vṛtra who had covered the waters; the Earth, consenting in consciousness, urged forward your thunderbolt. You set free the oceanic currents, becoming their lord—O hero, bold by your force.
अ॒पः । वृ॒त्रम् । व॒व्रि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ताः । प्र । अर्णां॑सि । स॒मु॒द्रिया॑णि । ऐ॒नोः॒ । पतिः॑ । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥अपः । वृत्रम् । वव्रिवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सचेताः । प्र । अर्णांसि । समुद्रियाणि । ऐनोः । पतिः । भवन् । शवसा । शूर । धृष्णो इति ॥apaḥ | vṛtram | vavri-vāṃsam | parā | ahan | pra | āvat | te | vajram | pṛthivī | sa-cetāḥ | pra | arṇāsi | samudriyāṇi | ainoḥ | patiḥ | bhavan | śavasā | śūra | dhṛṣṇo iti