Sukta 4.16
विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः । अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥
विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः । अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
víśvāni śakró náryāṇi vidvā́n apó rireca sákhir bhir ní-kāmaiḥ | áśmānam cid yé bibhidúr vácobhir vrajáṃ gó-mantam uśíjo ví vavrur ||
The Mighty One, knowing all the works that build the human being, released the waters with comrades of one desire. They split even the stone by the power of the word, and opened wide the luminous pen of the Rays (the cows), the seekers aflame for the offering.
विश्वा॑नि । श॒क्रः । नर्या॑णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि॑ऽभिः । निऽका॑मैः । अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दुः । वचः॑ऽभिः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रु॒रिति॑ वव्रुः ॥विश्वानि । शक्रः । नर्याणि । विद्वान् । अपः । रिरेच । सखिभिः । निकामैः । अश्मानम् । चित् । ये । बिभिदुः । वचःभिः । व्रजम् । गोमन्तम् । उशिजः । वि । वव्रुरिति वव्रुः ॥viśvāni | śakraḥ | naryāṇi | vidvān | apaḥ | rireca | sakhi-bhiḥ | ni-kāmaiḥ | aśmānam | cit | ye | bibhiduḥ | vacaḥ-bhiḥ | vrajam | go--mantam | uśijaḥ | vi | vavruritivavruḥ