Sukta 4.16
ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा । अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥
व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा । अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥
vavakṣa índro ámitam ṛjīṣy ùbhé ā́ paprau ródasī mahi-tvā́ | átaś cid asya mahimā́ ví recy abhí yó víśvā bhúvanā babhū́va ||
Indra has grown to an immeasurable greatness; by his vastness he has filled both Heaven and Earth. Even beyond that his might expands, he who has become encompassing over all the worlds of becoming.
व॒व॒क्षे । इन्द्रः॑ । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । अतः॑ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ । अ॒भि । यः । विश्वा॑ । भुव॑ना । ब॒भूव॑ ॥ववक्षे । इन्द्रः । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महित्वा । अतः । चित् । अस्य । महिमा । वि । रेचि । अभि । यः । विश्वा । भुवना । बभूव ॥vavakṣe | indraḥ | amitam | ṛjīṣī | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | ataḥ | cit | asya | mahimā | vi | reci | abhi | yaḥ | viśvā | bhuvanā | babhūva