Sukta 4.16
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् । दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥
क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् । दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्त॑: ॥
kavír na niṇyáṃ vidáthāni sā́dhan vṛ́ṣā yát sékaṃ vipipānó árcāt | divá itthā́ jī́janat saptá kārū́n áhnā cit cakruḥ vayunā́ gṛṇántaḥ ||
Like a seer achieving the hidden workings, he accomplished the sessions of knowledge; the Bull, drinking the outpouring, sang forth. Thus from heaven he generated the seven poets; and in a single day they fashioned the workings of understanding, praising.
क॒विः । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒नः । अर्चा॑त् । दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रुः॒ । व॒युना॑ । गृ॒णन्तः॑ ॥कविः । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । विपिपानः । अर्चात् । दिवः । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रुः । वयुना । गृणन्तः ॥kaviḥ | na | niṇyam | vidathāni | sādhan | vṛṣā | yat | sekam | vi-pipānaḥ | arcāt | divaḥ | itthā | jījanat | sapta | kārūn | ahnā | cit | cakruḥ | vayunā | gṛṇantaḥ