Sukta 4.16
अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै । शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥
अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑ । शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥
áva sya śūrā́dhvano nā́nte’ asmín no adyá sávane mandadhyái | śáṃsāty u̱kthám uśánāiva vedhā́ś cikitúṣe asuryā́ya mánma ||
Let not the hero fall short on this path’s end for us today at the Soma-session, for our gladness. The knower, like Uśanā, utters the hymn—an inspired thought for the discerning one, for the lordly power of the spirit (asuryā).
अव॑ । स्य॒ । शू॒र॒ । अध्व॑नः । न । अन्ते॑ । अ॒स्मिन् । नः॒ । अ॒द्य । सव॑ने । म॒न्दध्यै॑ । शंसा॑ति । उ॒क्थम् । उ॒शना॑ऽइव । वे॒धाः । चि॒कि॒तुषे॑ । अ॒सु॒र्या॑य । मन्म॑ ॥अव । स्य । शूर । अध्वनः । न । अन्ते । अस्मिन् । नः । अद्य । सवने । मन्दध्यै । शंसाति । उक्थम् । उशनाइव । वेधाः । चिकितुषे । असुर्याय । मन्म ॥ava | sya | śūra | adhvanaḥ | na | ante | asmin | naḥ | adya | savane | mandadhyai | śaṃsāti | uktham | uśanāiva | vedhāḥ | cikituṣe | asuryāya | manma