Sukta 4.16
आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः । तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥
आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः । तस्मा॒ इदन्ध॑: सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥
ā́ satyó yātu maghávāṃ ṛjīṣī́ drávantv asya háraya úpa naḥ | tásmā íd ándhaḥ suṣumā́ su̱dákṣam ihā́bhi-pi̱tváṃ karate gṛṇānáḥ ||
Let the true Maghavan come, the straight-pressing one; let his tawny powers rush towards us. For him indeed we have pressed the Soma-essence, well-skilled—so that, praised, he may make here a close communion and inward intimacy.
आ । स॒त्यः । या॒तु॒ । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑यः । उप॑ । नः॒ । तस्मै॑ । इत् । अन्धः॑ । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒नः ॥आ । सत्यः । यातु । मघवान् । ऋजीषी । द्रवन्तु । अस्य । हरयः । उप । नः । तस्मै । इत् । अन्धः । सुसुम । सुदक्षम् । इह । अभिपित्वम् । करते । गृणानः ॥ā | satyaḥ | yātu | magha-vān | ṛjīṣī | dravantu | asya | harayaḥ | upa | naḥ | tasmai | it | andhaḥ | susuma | su-dakṣam | iha | abhi-pitvam | karate | gṛṇānaḥ