Sukta 4.16
सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः । मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥
सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्प॑: । मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥
sū́ra upāké tanvàṃ dádhāno ví yát te céty amṛ́tasya várpaḥ | mṛgó na hastī́ taviṣī́m uṣāṇáḥ siṃhó na bhīmá āyúdhāni bábhrat ||
O Heroic One, taking on a body in the near field of our consciousness, when your immortal splendour becomes manifest and spreads, you press forward with force—like a wild beast, like a mighty elephant; like a dreadful lion you bear your weapons: the powers that break the obstruction.
सूरः॑ । उ॒पा॒के । त॒न्व॑म् । दधा॑नः । वि । यत् । ते॒ । चेति॑ । अ॒मृत॑स्य । वर्पः॑ । मृ॒गः । न । ह॒स्ती । तवि॑षीम् । उ॒षा॒णः । सिं॒हः । न । भी॒मः । आयु॑धानि । बभ्र॑त् ॥सूरः । उपाके । तन्वम् । दधानः । वि । यत् । ते । चेति । अमृतस्य । वर्पः । मृगः । न । हस्ती । तविषीम् । उषाणः । सिंहः । न । भीमः । आयुधानि । बभ्रत् ॥sūraḥ | upāke | tanvam | dadhānaḥ | vi | yat | te | ceti | amṛtasya | varpaḥ | mṛgaḥ | na | hastī | taviṣīm | uṣāṇaḥ | siṃhaḥ | na | bhīmaḥ | āyudhāni | babhrat