Sukta 4.16
त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः । पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥
त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः । प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥
tváṃ pípruṃ mṛ́gayaṃ śūśu-vā́ṃsam ṛjíśvane vaidathinā́ya randhī́ḥ | pañcāśát kṛṣṇā́ ní vapaḥ sahásrāt kaṃ́ ná púro jarimā́ ví dardaḥ ||
You subdued Pipru the hunter, who had grown fierce, for Ṛjiśvan the finder in the path of sacrifice. You cast down the fifty dark powers from their thousandfold hold, and you broke the fortresses like age itself, making a clear way.
त्वम् । पिप्रु॑म् । मृग॑यम् । शू॒शु॒ऽवांस॑म् । ऋ॒जिश्व॑ने । वै॒द॒थि॒नाय॑ । र॒न्धीः॒ । प॒ञ्चा॒शत् । कृ॒ष्णा । नि । व॒पः॒ । स॒हस्रा॑ । अत्क॑म् । न । पुरः॑ । ज॒रि॒मा । वि । द॒र्दः॒ ॥त्वम् । पिप्रुम् । मृगयम् । शूशुवांसम् । ऋजिश्वने । वैदथिनाय । रन्धीः । पञ्चाशत् । कृष्णा । नि । वपः । सहस्रा । अत्कम् । न । पुरः । जरिमा । वि । दर्दः ॥tvam | piprum | mṛgayam | śūśu-vāṃsam | ṛjiśvane | vaidathināya | randhīḥ | pañcāśat | kṛṣṇā | ni | vapaḥ | sahasrā | ātkam | na | puraḥ | jarimā | vi | dardaḥ