Sukta 4.16
कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥
कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्न॒: कुय॑वं स॒हस्रा॑ । स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥
kútsāya śúṣṇam aśúṣaṃ ní barhīḥ pra-pitvé áhnaḥ kúyavaṃ sahásrā | sadyó dásyūn prá mṛṇa kútsyena prá sū́raś cakráṃ vṛhatād abhī́ke ||
For Kútsa you struck down Śuṣṇa, the withholder of increase; in the meeting of the days you shattered the thousandfold Kuyava. At once smite down the Dasyus with Kútsa; and let the Sun’s wheel roll vast in the near field of our being.
कुत्सा॑य । शुष्ण॑म् । अ॒शुष॑म् । नि । ब॒र्हीः॒ । प्र॒ऽपि॒त्वे । अह्नः॑ । कुय॑वम् । स॒हस्रा॑ । स॒द्यः । दस्यू॑न् । प्र । मृ॒ण॒ । कु॒त्स्येन॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ ॥कुत्साय । शुष्णम् । अशुषम् । नि । बर्हीः । प्रपित्वे । अह्नः । कुयवम् । सहस्रा । सद्यः । दस्यून् । प्र । मृण । कुत्स्येन । प्र । सूरः । चक्रम् । वृहतात् । अभीके ॥kutsāya | śuṣṇam | aśuṣam | ni | barhīḥ | pra-pitve | ahnaḥ | kuyavam | sahasrā | sadyaḥ | dasyūn | pra | mṛṇa | kutsyena | pra | sūraḥ | cakram | vṛhatāt | abhīke