Sukta 4.16
यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः । ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥
यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः । ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥
yā́si kútsena sá-ratham avasyús tódó vā́tasya háryor ī́śānaḥ | ṛjrā́ vā́jaṃ ná gádhyaṃ yuyū́ṣan kavír yád áhan pā́ryāya bhū́ṣāt ||
You go with Kútsa on the same chariot, desiring our good; you are the goad of the Wind, the master of the two tawny steeds. Urging on the straight-going plenitude of force like a swift course, the seer struck for the farther shore, to make the passage beautiful and accomplished.
यासि॑ । कुत्से॑न । स॒ऽरथ॑म् । अ॒व॒स्युः । तो॒दः । वात॑स्य । हर्योः॑ । ईशा॑नः । ऋ॒ज्रा । वाज॑म् । न । गध्य॑म् । युयू॑षन् । क॒विः । यत् । अह॑न् । पार्या॑य । भूषा॑त् ॥यासि । कुत्सेन । सरथम् । अवस्युः । तोदः । वातस्य । हर्योः । ईशानः । ऋज्रा । वाजम् । न । गध्यम् । युयूषन् । कविः । यत् । अहन् । पार्याय । भूषात् ॥yāsi | kutsena | sa-ratham | avasyuḥ | todaḥ | vātasya | haryoḥ | īśānaḥ | ṛjrā | vājam | na | gadhyam | yuyūṣan | kaviḥ | yat | ahan | pāryāya | bhūṣāt