Sukta 4.16
आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः । स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी ॥
आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्स॑: स॒ख्ये निका॑मः । स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥
ā́ dasyu-ghnā́ manasā yā́hy ástaṃ bhúvat te kútsaḥ sakhyé ní-kāmaḥ | své yónau ní ṣadatam sá-rūpā ví vāṃ cikitsad ṛtá-cid dha nā́rī ||
Come homeward in mind, O slayer of the Dasyus; Kútsa has become for you a comrade in the friendship of one desire. Sit down together in your own source, of one form; the woman who knows by the Truth indeed perceives your secret working.
आ । द॒स्यु॒ऽघ्ना । मन॑सा । या॒हि॒ । अस्त॑म् । भुव॑त् । ते॒ । कुत्सः॑ । स॒ख्ये । निऽका॑मः । स्वे । योनौ॑ । नि । स॒द॒त॒म् । सऽरू॑पा । वि । वा॒म् । चि॒कि॒त्स॒त् । ऋ॒त॒ऽचित् । ह॒ । नारी॑ ॥आ । दस्युघ्ना । मनसा । याहि । अस्तम् । भुवत् । ते । कुत्सः । सख्ये । निकामः । स्वे । योनौ । नि । सदतम् । सरूपा । वि । वाम् । चिकित्सत् । ऋतचित् । ह । नारी ॥ā | dasyu-ghnā | manasā | yāhi | astam | bhuvat | te | kutsaḥ | sakhye | ni-kāmaḥ | sve | yonau | ni | sadatam | sa-rūpā | vi | vām | cikitsat | ṛta-cit | ha | nārī