Sukta 4.15
एष वां देवावश्विना कुमारः साहदेव्यः । दीर्घायुरस्तु सोमकः ॥
ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥
e̱ṣá vāṃ devāv aśvinā kumāráḥ sāhadévyaḥ | dī̱rghā́yur astu sómakaḥ ||
This is your (protégé), O divine Aśvins—the Sahadevya youth; may Somaka become long-lived, held in your sustaining harmony.
ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः । दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥एषः । वाम् । देवौ । अश्विना । कुमारः । साहदेव्यः । दीर्घआयुः । अस्तु । सोमकः ॥eṣaḥ | vām | devau | aśvinā | kumāraḥ | sāha-devyaḥ | dīrgha-āyuḥ | astu | somakaḥ