Sukta 4.15
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् । मर्मृज्यन्ते दिवेदिवे ॥
तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् । म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥
tám árvantaṃ na sānasím aruṣáṃ na diváḥ śíśum | marmṛ́jyante divé-dive ||
Him they polish day by day—like a racing steed for winning, like the ruddy child of heaven—till the flame grows perfect in its shining form.
तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् । म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् । मर्मृज्यन्ते । दिवेदिवे ॥tam | arvantam | na | sānasim | aruṣam | na | divaḥ | śiśum | marmṛjyante | dive--dive