Sukta 4.15
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः ॥
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्य॑: । ति॒ग्मज॑म्भस्य मी॒ळ्हुष॑: ॥
ásya ghā vīrá ī́vato’gnér īśīta mártyaḥ | tigmá-jambhasya mīḷhúṣaḥ ||
Of this Agni indeed—the impetuous giver—the mortal hero becomes master: of the sharp-jawed strong helper who grants the needed succour.
अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ । ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः । तिग्मजम्भस्य । मीळ्हुषः ॥asya | gha | vīraḥ | īvataḥ | agneḥ | īśīta | martyaḥ | tigma-jambhasya | mīḷhuṣaḥ