Sukta 4.15
अयं यः सृञ्जये पुरो दैववाते समिध्यते । द्युमाँ अमित्रदम्भनः ॥
अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ । द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥
a॒yaṃ yaḥ sṛñjáye puró daívavāté sami̱dhyaté | dyu̱mā́m̐ amitrá-dámbhanaḥ ||
This is he—who for Sṛñjaya is kindled before the divine impulsion: luminous in mind, a breaker of the hostile powers of falsity.
अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ । द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥अयम् । यः । सृञ्जये । पुरः । दैववाते । सम्इध्यते । द्युमान् । अमित्रदम्भनः ॥ayam | yaḥ | sṛñjaye | puraḥ | daiva-vāte | sam-idhyate | dyu-mān | amitra-dambhanaḥ