Sukta 4.15
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
pári vājá-patiḥ kavír agnír havyā́ny akramīt | dádhad rátnāni dāśúṣe ||
Agni, the seer and lord of plenitude (vāja), strides around the offerings; bearing the jewels of realization, he sets them in the giver who pours himself out in sacrifice.
परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् । दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥परि । वाजपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् । दधत् । रत्नानि । दाशुषे ॥pari | vāja-patiḥ | kaviḥ | agniḥ | havyāni | akramīt | dadhat | ratnāni | dāśuṣe