Sukta 4.15
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते । देवो देवेषु यज्ञियः ॥
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥
pári tri-viṣṭy adhvaráṃ yāty agnī́ rathī́r iva | ā dēvéṣu práyo dádhat ||
Agni moves around the well-ordered sacrifice like a charioteer; he sets the offerings and their forward impulse among the gods.
अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते । देवः । देवेषु । यज्ञियः ॥agniḥ | hotā | naḥ | adhvare | vājī | san | pari | nīyate | devaḥ | deveṣu | yajñiyaḥ