Sukta 4.14
प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः । आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥
प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः । आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥
praty agnír uṣáso jā́tavedā́ ákhya dēvó rócamānā máhobhiḥ | ā nā́satyor urū-gāyā́ ráthenemáṃ yajñám upa no yātam áccha ||
Facing the Dawn, Agni the knower of births has revealed himself, the god growing luminous by his great powers. O Nāsatyas, wide in your movement and worthy of vast song, come with your chariot to this sacrifice; draw near to us indeed.
प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः । आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥प्रति । अग्निः । उषसः । जातवेदाः । अख्यत् । देवः । रोचमानाः । महःभिः । आ । नासत्या । उरुगाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ ॥prati | agniḥ | uṣasaḥ | jāta-vedāḥ | akhyat | devaḥ | rocamānāḥ | mahaḥ-bhiḥ | ā | nāsatyā | uru-gāyā | rathena | imam | yajñam | upa | naḥ | yātam | accha