Sukta 4.13
वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥
वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ । दवि॑ध्वतो र॒श्मय॒: सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व१॒॑न्तः ॥
vahiṣṭhébhir vi-háran yāsi tántum ava-vyáyan ásitaṃ deva vásma | davídhvato raśmáyaḥ sū́ryasya cármevāvā́dhus támo apsv àntaḥ ||
With the most puissant bearers you move forth, weaving downward the thread; O luminous Power, you cast off the black covering. The rays of the Sun, striking and cleaving, have driven the darkness down, as a hide is stripped away, into the inner waters.
वहि॑ष्टेभिः । वि॒ऽहर॑न् । या॒सि॒ । तन्तु॑म् । अ॒व॒ऽव्यय॑न् । असि॑तम् । दे॒व॒ । वस्म॑ । दवि॑ध्वतः । र॒श्मयः॑ । सूर्य॑स्य । चर्म॑ऽइव । अव॑ । अ॒धुः॒ । तमः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ ॥वहिष्टेभिः । विहरन् । यासि । तन्तुम् । अवव्ययन् । असितम् । देव । वस्म । दविध्वतः । रश्मयः । सूर्यस्य । चर्मइव । अव । अधुः । तमः । अप्सु । अन्तरिति ॥vahiṣṭebhiḥ | vi-haran | yāsi | tantum | ava-vyayan | asitam | deva | vasma | davidhvataḥ | raśmayaḥ | sūryasya | carma-iva | ava | adhuḥ | tamaḥ | ap-su | antariti