Sukta 4.13
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न । कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥
anā́yato áni-baddhaḥ kathā́yáṃ nyàṅ-uttānó ’va padyate ná | kayā́ yāti svadháyā káḥ dadarśa diváḥ skambháḥ sám-ṛtaḥ pā́ti nā́kam ||
Unled, unbound—how does this one not fall downward though turned headlong? By what self-law does it move, who has perceived it: the Pillar of heaven, compacted in the Truth, that upholds the luminous vault?
अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न । कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥अनायतः । अनिबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न । कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऋतः । पाति । नाकम् ॥anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na | kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam