Sukta 4.11
आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि । दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥
आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ । दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥
ā́re asmád ámatim ā́re áṃha ā́re víśvāṃ durmatíṃ yán nipā́si | doṣā́ śiváḥ sahasaḥ sūno agne yáṃ devá ā́ cít sácase svastí ||
Drive far from us the crookedness of thought, drive far the constriction and the sin, drive far every perverse intention—since thou guardest and restrainest them. In the night be thou our benignant power, O Agni, son of Force; thou whom even the gods approach for the state of well-being.
आ॒रे । अ॒स्मत् । अम॑तिम् । आ॒रे । अंहः॑ । आ॒रे । विश्वा॑म् । दुः॒ऽम॒तिम् । यत् । नि॒ऽपासि॑ । दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच॑से । स्व॒स्ति ॥आरे । अस्मत् । अमतिम् । आरे । अंहः । आरे । विश्वाम् । दुःमतिम् । यत् । निपासि । दोषा । शिवः । सहसः । सूनो इति । अग्ने । यम् । देवः । आ । चित् । सचसे । स्वस्ति ॥āre | asmat | amatim | āre | aṃhaḥ | āre | viśvām | duḥ-matim | yat | ni-pāsi | doṣā | śivaḥ | sahasaḥ | sūno iti | agne | yam | devaḥ | ā | cit | sacase | svasti