Sukta 4.10
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् । तत्ते रुक्मो न रोचत स्वधावः ॥
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥
ghṛtáṃ ná pūtáṃ tanūr arepā́ḥ śúci híraṇyam | tát te rukmó ná rocat svadhāvaḥ ||
Your body is like clarified butter, purified—stainless, a pure gold. That in you shines like a golden splendor, O self-lawed one, born of your own inherent power.
घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् । तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् । तत् । ते । रुक्मः । न । रोचत । स्वधावः ॥ghṛtam | na | pūtam | tanūḥ | arepāḥ | śuci | hiraṇyam | tat | te | rukmaḥ | na | rocata | svadhāvaḥ