Sukta 4.10
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः ॥
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्मा॑: ॥
ābhiṣ te adyá gīrbhír gṛṇánto’gne dāśema | prá te divó ná stanayanti śúṣmāḥ ||
With these our uttered words, praising you today, O Agni, may we offer ourselves and our gains to you. May your powers surge forth like the thunderings of heaven—forces that awaken and drive out the inertia of darkness.
आ॒भिः । ते॒ । अ॒द्य । गीः॒ऽभिः । गृ॒णन्तः॑ । अग्ने॑ । दाशे॑म । प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः॑ ॥आभिः । ते । अद्य । गीःभिः । गृणन्तः । अग्ने । दाशेम । प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः ॥ābhiḥ | te | adya | gīḥ-bhiḥ | gṛṇantaḥ | agne | dāśema | pra | te | divaḥ | na | stanayanti | śuṣmāḥ