Sukta 4.10
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥
ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योति॑: । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥
ebhír no arkáir bhávā no arvā́ṅ svàrṇa jyótiḥ | agné víśvebhiḥ su-manā́ anī́kaiḥ ||
By these flames of the Word be present for us; come to us from the luminous world as light itself, O Agni—be gracious in mind with all thy faces and powers.
ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । ण । ज्योतिः॑ । अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । ण । ज्योतिः । अग्ने । विश्वेभिः । सुमनाः । अनीकैः ॥ebhiḥ | naḥ | arkaiḥ | bhava | naḥ | arvāṅ | svaḥ | ṇa | jyotiḥ | agne | viśvebhiḥ | su-manāḥ | anīkaiḥ