Sukta 4.10
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋध्यामा त ओहैः ॥
अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑: ॥
agné tám adyā́śvaṃ na stómaiḥ krátum na bhadráṃ hṛdi-spṛ́śam | ṛdhyā́mā te óhaiḥ ||
O Agni, today by our hymns we would prosper in that—like a swift steed—thy good and luminous will, touching the heart; may we increase by thy impulsions and energies.
अग्ने॑ । तम् । अ॒द्य । अश्व॑म् । न । स्तोमैः॑ । क्रतु॑म् । न । भ॒द्रम् । हृ॒दि॒ऽस्पृश॑म् । ऋ॒ध्याम॑ । ते॒ । ओहैः॑ ॥अग्ने । तम् । अद्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिस्पृशम् । ऋध्याम । ते । ओहैः ॥agne | tam | adya | aśvam | na | stomaiḥ | kratum | na | bhadram | hṛdi-spṛśam | ṛdhyāma | te | ohaiḥ