Sukta 4.1
स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥
स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः । रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥
sá dūtó víśved abhí vaṣṭi sádmā hótā híraṇya-ratho rám-sujihvaḥ | róhid-aśvo vapuṣyò vibhā́vā sádā raṇváḥ pitumátīva saṃsát ||
He, the messenger, encompasses all dwellings; the priest with golden chariot, with tongue that delights in the offering. With ruddy steeds, beautiful in form, shining widely, he sits always in the pleasant assembly like one rich in sustenance.
सः । दू॒तः । विश्वा॑ । इत् । अ॒भि । व॒ष्टि॒ । सद्म॑ । होता॑ । हिर॑ण्यऽरथः । रम्ऽसु॑जिह्वः । रो॒हित्ऽअ॑श्वः । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । सदा॑ । र॒ण्वः । पि॒तु॒मती॑ऽइव । सं॒सत् ॥सः । दूतः । विश्वा । इत् । अभि । वष्टि । सद्म । होता । हिरण्यरथः । रम्सुजिह्वः । रोहित्अश्वः । वपुष्यः । विभावा । सदा । रण्वः । पितुमतीइव । संसत् ॥saḥ | dūtaḥ | viśvā | it | abhi | vaṣṭi | sadma | hotā | hiraṇya-rathaḥ | ram-sujihvaḥ | rohit-aśvaḥ | vapuṣyaḥ | vibhāvā | sadā | raṇvaḥ | pitumatī-iva | saṃsat