Sukta 4.1
त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः । अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥
त्रिर॑स्य॒ ता प॑र॒मा स॑न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः । अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचि॑: शु॒क्रो अ॒र्यो रोरु॑चानः ॥
trír asyá tā́ paramā́ sánti satyā́ spārhā́ devásya jánimāny agnéḥ | ananté ántar pári-vīta ā́gāc chúciḥ śukró aryó rórucānaḥ ||
Three are his highest births, true and desirable—these becomings of Agni the god. Wrapped within the Infinite, he has come: pure, bright, noble, shining forth again and again.
त्रिः । अ॒स्य॒ । ता । प॒र॒मा । स॒न्ति॒ । स॒त्या । स्पा॒र्हा । दे॒वस्य॑ । जनि॑मानि । अ॒ग्नेः । अ॒न॒न्ते । अ॒न्तरिति॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । शुचिः॑ । शु॒क्रः । अ॒र्यः । रोरु॑चानः ॥त्रिः । अस्य । ता । परमा । सन्ति । सत्या । स्पार्हा । देवस्य । जनिमानि । अग्नेः । अनन्ते । अन्तरिति । परिवीतः । आ । अगात् । शुचिः । शुक्रः । अर्यः । रोरुचानः ॥triḥ | asya | tā | paramā | santi | satyā | spārhā | devasya | janimāni | agneḥ | anante | antariti | pari-vītaḥ | ā | agāt | śuciḥ | śukraḥ | aryaḥ | rorucānaḥ