Sukta 4.1
अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु । शुचि घृतं न तप्तमघ्न्यायाः स्पार्हा देवस्य मंहनेव धेनोः ॥
अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु । शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥
asyá śréṣṭhā su-bhágasya saṃ-dṛ́g devásya citrá-tamā mártyeṣu | śúci ghṛtáṃ ná táptam aghnyā́yāḥ spārhā́ devásya maṃhánéva dhenóḥ ||
This blessed one’s vision is the best, most wondrous among mortals—the vision of the god. Pure, like clarified butter heated to perfection from the uninjured Cow, it is desirable: the god’s giving is like the overflowing bounty of a milch-cow.
अ॒स्य । श्रेष्ठा॑ । सु॒ऽभग॑स्य । स॒म्ऽदृक् । दे॒वस्य॑ । चि॒त्रऽत॑मा । मर्त्ये॑षु । शुचि॑ । घृ॒तम् । न । त॒प्तम् । अघ्न्या॑याः । स्पा॒र्हा । दे॒वस्य॑ । मं॒हना॑ऽइव । धे॒नोः ॥अस्य । श्रेष्ठा । सुभगस्य । सम्दृक् । देवस्य । चित्रतमा । मर्त्येषु । शुचि । घृतम् । न । तप्तम् । अघ्न्यायाः । स्पार्हा । देवस्य । मंहनाइव । धेनोः ॥asya | śreṣṭhā | su-bhagasya | sam-dṛk | devasya | citra-tamā | martyeṣu | śuci | ghṛtam | na | taptam | aghnyāyāḥ | spārhā | devasya | maṃhanāiva | dhenoḥ