Sukta 4.1
स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥
sá tváṃ no agne’vamó bhavotī́ nédhiṣṭho asyā́ uṣáso vyùṣṭau | áva yakṣva no váruṇaṃ rárāṇo vī́hi mṛḷīkáṃ su-hávo na edhi ||
So be for us, O Agni, the nearest and lowest-reaching help—closest at this Dawn’s spreading out. Offer for us to Varuṇa with delight; bring in the grace, and being easy to call, grow in us and make us grow.
सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒ । ऊ॒ती । नेदि॑ष्ठः । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । अव॑ । य॒क्ष्व॒ । नः॒ । वरु॑णम् । ररा॑णः । वी॒हि । मृ॒ळी॒कम् । सु॒ऽहवः॑ । नः॒ । ए॒धि॒ ॥सः । त्वम् । नः । अग्ने । अवमः । भव । ऊती । नेदिष्ठः । अस्याः । उषसः । विउष्टौ । अव । यक्ष्व । नः । वरुणम् । रराणः । वीहि । मृळीकम् । सुहवः । नः । एधि ॥saḥ | tvam | naḥ | agne | avamaḥ | bhava | ūtī | nediṣṭhaḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | ava | yakṣva | naḥ | varuṇam | rarāṇaḥ | vīhi | mṛḷīkam | su-havaḥ | naḥ | edhi