Sukta 4.1
त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥
tváṃ no agne váruṇasya vidvā́n devásya héḷo’vá yāsisīṣṭhāḥ | yájiṣṭho váhni-tamaḥ śóśucāno víśvā dvéṣāṃsi prá mumugdhy asmát ||
You, O Agni, who know the ways of Varuṇa, lead us down away from the divine wrath and constriction. Most fit for sacrifice, most carrying in your flame, intensely blazing—drive far from us all hostilities and inner hatreds.
त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ । यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र मु॒मु॒ग्धि॒ । अ॒स्मत् ॥त्वम् । नः । अग्ने । वरुणस्य । विद्वान् । देवस्य । हेळः । अव । यासिसीष्ठाः । यजिष्ठः । वह्नितमः । शोशुचानः । विश्वा । द्वेषांसि । प्र मुमुग्धि । अस्मत् ॥tvam | naḥ | agne | varuṇasya | vidvān | devasya | heḷaḥ | ava | yāsisīṣṭhāḥ | yajiṣṭhaḥ | vahni-tamaḥ | śośucānaḥ | viśvā | dveṣāṃsi | pra mumugdhi | asmat