Sukta 4.1
सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥
सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ । अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु । तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥
sákhe sákhāyam abhy ā́ vavṛtsv āśúṃ ná cakráṃ rathyèva ráṃhyā́smábhyaṃ dasma ráṃhyā | ágne mṛḷīkáṃ váruṇe sácā vido marútsu viśvá-bhānuṣu | tokā́ya tujé śuśucāna śáṃ kṛdhy asmábhyaṃ dasma śáṃ kṛdhi ||
O Friend, turn toward your Friend; come swiftly, like a wheel’s rapid rush along the road—come with speed for us, O Wonder-worker. O Agni, find for us the grace of Varuṇa, together with the Maruts of universal light. For our offspring and for our striving, O flaming one, make peace and well-being for us; O Wonder-worker, make that peace.
सखे॑ । सखा॑यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या॑ऽइव । रंह्या॑ । अ॒स्मभ्य॑म् । द॒स्म॒ । रंह्या॑ । अग्ने॑ । मृ॒ळी॒कम् । वरु॑णे । सचा॑ । वि॒दः॒ । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु । तो॒काय॑ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य॑म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥सखे । सखायम् । अभि । आ । ववृत्स्व । आशुम् । न । चक्रम् । रथ्याइव । रंह्या । अस्मभ्यम् । दस्म । रंह्या । अग्ने । मृळीकम् । वरुणे । सचा । विदः । मरुत्सु । विश्वभानुषु । तोकाय । तुजे । शुशुचान । शम् । कृधि । अस्मभ्यम् । दस्म । शम् । कृधि ॥sakhe | sakhāyam | abhi | ā | vavṛtsva | āśum | na | cakram | rathyāiva | raṃhyā | asmabhyam | dasma | raṃhyā | agne | mṛḷīkam | varuṇe | sacā | vidaḥ | marut-su | viśva-bhānuṣu | tokāya | tuje | śuśucāna | śam | kṛdhi | asmabhyam | dasma | śam | kṛdhi