Sukta 4.1
स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥
स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसम् । ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृत॑म् ॥
sá bhrā́taraṃ váruṇam agna ā́ vavṛtsva devā́n ácchā sumatī́ yajñá-vanasaṃ jyéṣṭhaṃ yajñá-vanasam | ṛtā́vānām ādityáṃ carṣaṇī-dhṛ́taṃ rā́jānaṃ carṣaṇī-dhṛ́tam ||
O Agni, turn hither and draw near Varuṇa, your brother; bring the gods to us in a happy understanding—Varuṇa, eldest in the power of sacrifice. The Aditya who is full of the working of Truth, the king who upholds the peoples: bring that Varuṇa, the supporter of man’s law and order.
सः । भ्रात॑रम् । वरु॑णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ॑ । सु॒ऽम॒ती । य॒ज्ञऽव॑नसम् । ज्येष्ठ॑म् । य॒ज्ञऽव॑नसम् । ऋ॒तऽवा॑नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒ऽधृत॑म् । राजा॑नम् । च॒र्ष॒णि॒ऽधृत॑म् ॥सः । भ्रातरम् । वरुणम् । अग्ने । आ । ववृत्स्व । देवान् । अच्छ । सुमती । यज्ञवनसम् । ज्येष्ठम् । यज्ञवनसम् । ऋतवानम् । आदित्यम् । चर्षणिधृतम् । राजानम् । चर्षणिधृतम् ॥saḥ | bhrātaram | varuṇam | agne | ā | vavṛtsva | devān | accha | su-matī | yajña-vanasam | jyeṣṭham | yajña-vanasam | ṛta-vānam | ādityam | carṣaṇi-dhṛtam | rājānam | carṣaṇi-dhṛtam