Sukta 4.1
नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त । आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन् ॥
नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त । आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
néśat támo dúdhitaṃ rócata dyáur úd devyā́ uṣáso bhā́nur arta | ā́ sū́ryo bृहतás tiṣṭhad ájrāṃ ṛjú márteṣu vṛjinā́ ca páśyan ||
The thickened darkness perished; heaven shone out. The beam of the divine Dawn rose upward. Then the Sun stood in the Vast on the unbroken fields, seeing straight among mortals—and also seeing the crookedness.
नेश॑त् । तमः॑ । दुधि॑तम् । रोच॑त । द्यौः । उत् । दे॒व्याः । उ॒षसः॑ । भा॒नुः । अ॒र्त॒ । आ । सूर्यः॑ । बृ॒ह॒तः । ति॒ष्ठ॒त् । अज्रा॑न् । ऋ॒जु । मर्ते॑षु । वृ॒ज्न॒ा । च॒ । पश्य॑न् ॥नेशत् । तमः । दुधितम् । रोचत । द्यौः । उत् । देव्याः । उषसः । भानुः । अर्त । आ । सूर्यः । बृहतः । तिष्ठत् । अज्रान् । ऋजु । मर्तेषु । वृज्ना । च । पश्यन् ॥neśat | tamaḥ | dudhitam | rocata | dyauḥ | ut | devyāḥ | uṣasaḥ | bhānuḥ | arta | ā | sūryaḥ | bṛhataḥ | tiṣṭhat | ajrān | ṛju | marteṣu | vṛjina | ca | paśyan