Sukta 4.1
ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् । तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥
ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् । तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥
té manvata prathamáṃ nā́ma dhenós tríḥ saptá mā́tuḥ paramā́ṇi vindan | táj jānatī́r abhy ànūṣata vrā́ āvír bhuvad aruṇī́r yaśásā góḥ ||
They discerned the first name of the fostering Cow and found the highest measures of the Mother—three times seven. Knowing that, the powers acclaimed it; the luminous ruddy rays of the Cow became manifest in glory.
ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम॑ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि॑ । वि॒न्द॒न् । तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा॑ । गोः ॥ते । मन्वत । प्रथमम् । नाम । धेनोः । त्रिः । सप्त । मातुः । परमाणि । विन्दन् । तत् । जानतीः । अभि । अनूषत । व्राः । आविः । भुवत् । अरुणीः । यशसा । गोः ॥te | manvata | prathamam | nāma | dhenoḥ | triḥ | sapta | mātuḥ | paramāṇi | vindan | tat | jānatīḥ | abhi | anūṣata | vrāḥ | āviḥ | bhuvat | aruṇīḥ | yaśasā | goḥ