Sukta 4.1
ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् । दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥
ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षन्त॒मद्रि॑म् । दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
té gavyatā́ mánasā dṛdhrám ubdháṃ gā́ yémānaṃ pári ṣántam ádrim | dṛḷháṃ náro vácasā daivyéna vrajáṃ gó-mantam uśíjo ví vavrúḥ ||
They, desiring the Rays, with the mind encompassed the firm, obstructing stone that held the lights. The seekers by the divine word broke open the strong enclosure; the ardent ones uncovered the pen full of luminous herds.
ते । ग॒व्य॒ता । मन॑सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि॑ । सन्त॑म् । अद्रि॑म् । दृ॒ळ्हम् । नरः॑ । वच॑सा । दैव्ये॑न । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥ते । गव्यता । मनसा । दृध्रम् । उब्धम् । गाः । येमानम् । परि । सन्तम् । अद्रिम् । दृळ्हम् । नरः । वचसा । दैव्येन । व्रजम् । गोमन्तम् । उशिजः । वि । वव्रुः ॥te | gavyatā | manasā | dṛdhram | ubdham | gāḥ | yemānam | pari | santam | adrim | dṛḷham | naraḥ | vacasā | daivyena | vrajam | go--mantam | uśijaḥ | vi | vavruḥ