Sukta 4.1
ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् । पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥
ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् । प॒श्वय॑न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ॥
té marmṛjata dadṛvā́ṃso ádrim tádeṣām anyé abhíto ví vocan | paśvá-yantrāso abhí kārám arcan vídanta jyótiś cakṛ́panta dhībhíḥ ||
They worked upon the stone, those who had the vision; and the others around them gave voice to it. Like herdsmen who guide the cattle, they sang toward the act of making; they found the Light and shaped it by their illumined thoughts.
ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒ऽवांसः॑ । अद्रि॑म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः॑ । वि । वो॒च॒न् । प॒श्वऽय॑न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त॑ । ज्योतिः॑ । च॒कृ॒पन्त॑ । धी॒भिः ॥ते । मर्मृजत । ददृवांसः । अद्रिम् । तत् । एषाम् । अन्ये । अभितः । वि । वोचन् । पश्वयन्त्रासः । अभि । कारम् । अर्चन् । विदन्त । ज्योतिः । चकृपन्त । धीभिः ॥te | marmṛjat a | dadṛ-vāṃsaḥ | adrim | tat | eṣām | anye | abhitaḥ | vi | vocan | paśva-yantrāsaḥ | abhi | kāram | arcan | vidanta | jyotiḥ | cakṛpanta | dhībhiḥ