Sukta 4.1
अस्माकमत्र पितरो मनुष्या अभि प्र सेदुॠतमाशुषाणाः । अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥
अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुॠ॒तमा॑शुषा॒णाः । अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अ॒न्तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥
asmā́kam átra pitáro manuṣyā́ abhí prá sedur ṛtám āśuṣāṇā́ḥ | aśmá-vrajāḥ su-dúghā vavré ántar úd usrā́ ā́jan uṣáso huvānā́ḥ ||
Here our human forefathers moved forward toward the Truth with swift striving. Breakers of the stone-enclosure, they opened within the well-milking (streams of plenty); they drove upward the ruddy lights, calling the Dawns.
अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । म॒नु॒ष्याः॑ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः । अश्म॑ऽव्रजाः । सु॒ऽदुघा॑ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः॑ । हु॒वा॒नाः ॥अस्माकम् । अत्र । पितरः । मनुष्याः । अभि । प्र । सेदुः । ऋतम् । आशुषाणाः । अश्मव्रजाः । सुदुघा । वव्रे । अन्तः । उत् । उस्राः । आजन् । उषसः । हुवानाः ॥asmākam | atra | pitaraḥ | manuṣyāḥ | abhi | pra | seduḥ | ṛtam | āśuṣāṇāḥ | aśma-vrajāḥ | su-dughā | vavre | antaḥ | ut | usrāḥ | ājan | uṣasaḥ | huvānāḥ