Sukta 4.1
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥
स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ । अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥
sa jā́yata prathamáḥ pastyā̀su mahó budhné rájasaḥ asyá yónau | apā́d aśī́rṣā guhá māno antā́ ā́yoyúvāno vṛṣabhásya nīḷé ||
He is born first in the dwelling-places, in the vast foundation of the mid-world, in this womb of the luminous realm. Footless, headless, he hides in the secret within, growing ever young in the settled seat of the Bull (the mighty Power).
सः । जा॒य॒त॒ । प्र॒थ॒मः । प॒स्त्या॑सु । म॒हः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ । अ॒पात् । अ॒शी॒र्षा । गु॒हमा॑नः । अन्ता॑ । आ॒ऽयोयु॑वानः । वृ॒ष॒भस्य॑ । नी॒ळे ॥सः । जायत । प्रथमः । पस्त्यासु । महः । बुध्ने । रजसः । अस्य । योनौ । अपात् । अशीर्षा । गुहमानः । अन्ता । आयोयुवानः । वृषभस्य । नीळे ॥saḥ | jāyata | prathamaḥ | pastyāsu | mahaḥ | budhne | rajasaḥ | asya | yonau | apāt | aśīrṣā | guhamānaḥ | antā | āyoyuvānaḥ | vṛṣabhasya | nīḷe